![]()
Tez Education
वर्ग-3 | भाषा संस्कृत (10 Nov 2024)
शिक्षक पात्रता परीक्षा वर्ग-3
संकेतः-
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
“कः श्रेष्ठः? अहं ईश्वरो वा ?” अहंकारी राजा राज्यसभायां स्वराज्यस्य सर्वान् पण्डित्तान् पृष्टवान्। “कि कर्तव्यम् ? यदि सत्यं वदेम तर्हि प्राणहानिः तु निश्चिता अस्ति” इति परस्परं विचारयन्तः भयत्रस्ताः पण्डिताः निरुत्तराः अभवन्, राजानां च प्रार्थयन्- “देवा दिनद्वयस्य अवधिः दीयताम्।” “तथास्तु” राजा अवदत्। “अलं चिन्तया अहम् उत्तरं दास्यामि।” विन्ताकुलेषु तेषु एकः ज्ञानवृद्धः पण्डितः अकथयत्। नियते दिने सर्वे पण्डिताः राज्यसभां प्राप्तवन्तः। अञ्जलिं बद्ध्वा दण्डवत् प्रणम्य सः ज्ञानवृद्धः राजानम् अवदत् “राजन्। निस्संदेहं भवान् एव श्रेष्ठः न तु ईश्वरः। तत् कथम्?” गर्वेण मदोद्धतः राजा अपृच्छत्। “भवान् एव श्रेष्ठः यतः भवान् अस्मान् स्वराज्यात् बहिः निष्कासयितुम् समर्थः। ईश्वरः स्वनिर्मितात् जगतः अस्मात् बहिष्कृत्य कुत्र निवासं दास्यति” पण्डिततः अवदत्।
क्विज़ परिणाम
0
सही
0
गलत