MPTET वर्ग 3 संस्कृत प्रीवियस पेपर-15 वर्ष 2024

Loading

शिक्षक पात्रता परीक्षा वर्ग-3 | संस्कृत क्विज़

संकेतः- अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।

लोके भवः लौकिकः । युक्तियुक्ता प्रस्तावना एवं न्यायः। लोकेषु प्रचुरप्प्रचारयुक्ता सयुक्तिकप्रस्तावना एवं न्यायः। आशयप्रकाशनाय अयत्नसहितः मार्गः एव लौकिकन्यायानां स्वीकारेण लभ्यते । आशयविनिमयः एव भाषायाः परं प्रयोजनम्। आशयविनिमयः इत्यनेन आशयस्य प्रकटनं तथा स्वीकारश्च उद्दिष्टमस्ति । वक्ता मनसि विद्यामानान् आशयान् वाचिकतया लेखनद्वारेण वा प्रकाशयति । अन्यस्तु तच्छ्रुत्वा वाचयित्वा वा आशयं स्वीकरोति च। आशयविनिमयकर्मणि भाषाशैलीनां तथा आप्तवाक्यानां च महत् स्थानं विद्यते। आशयस्य प्रकाशने लौकिकन्यायानामपि स्थानं अलघु एव वर्तते । अल्पैः पदैः लघुवाक्येन वा महान् आशयप्रपञ्चः अनेन विस्तार्यते। अन्धदर्पणन्यायः, काकतालीयन्यायः, दण्डापूपन्यायः, तिलतण्डुलन्यायः, घटदीपन्यायः, बीजाङ्‌कुरन्यायः, वह्निधूमन्यायः, लूतातन्तुन्यायः…… एवं लौकिकन्यायाः शतमिताः विद्यन्ते ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top