![]()
Tez Education
शिक्षक पात्रता परीक्षा वर्ग-3
दिनांक:- 16 Nov. 2024, Shift-2
विषय:- भाषा संस्कृत
संकेतः- अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
विद्वज्जनसेवया शास्त्राध्ययनेन अध्यापनेन व प्रसिद्धः केरलीयपण्डितः आसीत् अच्युतपिषारटिमहाशयः। अस्य जीवनकालः षोडशशताब्दः। सोऽयं संस्कृतपण्डितेषु प्रामाणिकः आसीत्। मलप्पुरं जिल्लायाः तिरूरस्थे तुक्कण्टियूर पिषारद्भवने पञ्चचत्वारिंशदुत्तरपञ्चदशशततमे (1545) वर्षे अयं भूजातः। बाल्ये एव अच्युतः व्याकरणादिषु वेदाङ्गेषु वैद्यशास्त्रे च पाण्डित्यं प्राप्तवान्। ज्योतिषं गणितं च तस्य इष्टविषयी आस्ताम्। गोलदीपिका, जातकाभरणम्, स्फुटनिर्णयः करणोत्तमः प्रवेशकः इत्यादयः तस्य प्रशस्ताः रचनाः। व्याकरणशास्त्राध्ययने नारायणभट्टपादः अच्युतपिषारटिमहोदयस्य शिष्यत्वं स्वीचकार। स्वजीवनं सम्पूर्ण वागुपासनाय समर्पितोऽयं मनीषी एकविंशत्युत्तरषोडशशततमे (1621) वर्षे दिवङ्गतोऽभवत्। यद्यपि पण्डितोऽयं इह जगति अद्य न वर्तते तथापि अस्य यशः शाश्वतं स्थास्यत्येव।
पद्यांशः
शरीरायासजननं कर्म व्यायामसंज्ञितम्।
तत्कृत्वा तु सुखं देहं विमृद्रीयात् समन्ततः।।