![]()
शिक्षक पात्रता परीक्षा वर्ग-3
दिनांक: 19 Nov. 2024, Shift-1 | विषय: भाषा संस्कृत
✅ 0 | ❌ 0
⏱️ 20:00
निर्देश:
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
प्रलयकथा पौराणिकी अस्ति। वेदपुराणेषु प्रलयकथा प्रचुरा प्रतिपाद्यते। भगवता विष्णुना लोकावनाय दुष्टविनाशाय च स्वीकृतेषु दशावतारेषु प्रथमः मत्स्यावतारः प्रलयकथाम् अनुस्मारयति। सर्वविज्ञानकोशान् वेदान् अपहृत्य प्रलयजले गोपितवन्तं हयग्रीवाख्यं दैत्यं हन्तुं सत्यव्रतस्य राजर्षेः हस्तपुटे मत्स्यरूपेण अवतीर्णः हरिः अनुदिनं प्रवर्धमानः यदा भीमरूपं स्वीचकार, तदा तं सः प्रलयजले चिक्षेष। मत्स्याकृतिः भगवान् प्रलयजले निलीनं हयग्रीवं निहत्य वेदान् आजहार इति कथा प्रलयसूचनां ददाति। वराहावतारं स्वीकृत्य प्रलयमलितां भूमिम् अरक्षत् इति चास्ति कथा। प्रह्लादपितुः हिरण्यकशिपोः भ्राता आसीत् हिरण्याक्षः। सः भूमिं प्रलयजले निमग्नां अकरोत्। जनाः पीडाकुलाः बभूवुः। तदा करुणामयः भगवान् वराहाकृतिम् अवलम्ब्य तं जघान। प्रलयजलात् भूमिं विमुक्तां अकरोच्चेति कथागतिः। कथ्यते यत् कल्पान्तेषु मन्वन्तरेषु च प्रलयाः भवन्तीति। यदा भूतलं सर्वं पापपङ्किलं भवति, तदा धर्मरक्षां कर्तुं ईश्वरः अवतरतीति गीतोक्तिरपि अत्र स्मर्तव्या भवति।