![]()
Tez Education
वर्ग-3 | 22 Nov 2024 (Shift-2)
शिक्षक पात्रता परीक्षा वर्ग-3
विषय:- भाषा संस्कृत
संकेतः- अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
एकदा कश्चन बालः कोल्कत्तानगरे राजमार्गेण गच्छन्नासीत्। तदा सः अतिशीघ्रम् आगच्छत् अनियन्त्रकं किञ्चित् अश्वशकटम् अपश्यत्। काचित् महिला शकटे उपविश्य उच्चैः विलपन्ती आसीत्। जनाः संभ्रान्ताः स्तब्धाः स्थिताः। धीरः स बाल सपदि धावन्तमश्वं रशनां गृहीत्वा स्थगितवान्। एवं महिला च समाश्वासिता। अयं बाल एवं पश्चात् स्वामी विवेकानन्दः इति प्रसिद्धोऽभवत्। स्वामिनः विवेकानन्दस्य जन्म त्रिषष्ट्यधिकाष्टशतोत्तरसहस्रतमे (१८६३) वर्षे जनुवरी 12 दिनाङ्के बङ्गदेशस्य कोल्कत्तानगरे अभवत्। अस्य पिता विश्वनाधदत्तः, माता भुवनेश्वरीदेवी वास्ताम्। बाल्यकाले वीरेश्वरः नरेन्द्रः इत्यादिभिः नामान्तरेश्च सः ज्ञायते स्म। त्रिनवत्यधिकाष्टाशतोत्तरसहस्रतमे (1893) वर्षे अमेरिकादेशस्य चिक्कागोनगरे प्रवृत्ते सर्वधर्मसम्मेलने स्वभाषणेन सर्वानपि आनन्दयन् सः विश्वविख्यातः अभवत्। “उत्तिष्ठतः जाग्रत प्राप्यवरान्निबोधत” इत्त्यादिभिः उपनिषद्वाक्यैः स्वामी विवेकानन्दः युवकान् प्राबोधयत्। भारतसर्वकारः अस्य जन्मदिनं देशीययुवजनदिनत्वेन समाचरति।
परीक्षा परिणाम
कुल प्रश्न: 30
सही उत्तर: 0
गलत उत्तर: 0